भगत सिंह पर संस्कृत में निबंध: Essay on Bhagat Singh In Sanskrit Language

Spread the love

भगत सिंह पर संस्कृत में निबंध (Essay on Bhagat Singh In Sanskrit):इस पोस्ट मे सरदार भगत सिंह पर निबंध संस्कृत में निबंध शेयर कर रहे है। सरदार भगत सिंह का नाम अमर शहीदों में सबसे प्रमुख रूप से लिया जाता है। भगत सिंह का जन्म 28 सितंबर, 1907 को पंजाब के जिला लायलपुर में बंगा गांव (जो अभी पाकिस्तान में है) के एक देशभक्त सिख परिवार में हुआ था, जिसका अनुकूल प्रभाव उन पर पड़ा था। उनके पिता का नाम सरदार किशन सिंह और माता का नाम विद्यावती कौर था।

Essay on Bhagat Singh In Sanskrit Language

भगतसिंहः स्वतन्त्रभारताय स्वप्राणाहूतिं दत्त्वा अमरः अभवत्। कश्चन सायन्तनः कालः। त्रिवर्षियः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत्। ताभ्यां सह कश्चन वृद्धः अपि आसीत्। सम्भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः। तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकरः दृश्यते स्म। भाषणं कुर्वन्तः ते एकस्य सस्यक्षेत्रस्य घट्ट प्राप्तवन्तः। बालकस्य आगमनशब्दः न श्रूयते इति पिता परिवृत्य दृष्टवान्। बालकः क्षेत्रे उपविश्य किमपि खनति स्म। ” किं करोति वत्स ? ” इति पिता पृष्टवान्। ” पश्य तात ! अस्मिन् क्षेत्रे अहं सर्वविधसस्यानि सफलानि करोमि। ” इति बालकः उक्तवान्। तस्य बालस्य नयनद्वयं द्योतते स्म। क्षेत्रे अवश्यं फलं प्राप्नोमि इति विश्वासः तस्य वचनेषु ध्वन्यते स्म। तस्य स्वरेण तौ ज्येष्ठौ आश्चर्यान्वितौ अभवताम्। सः बालकः एव भगतसिंहः। अनन्तरकाले मातृभूमि स्वतन्त्रं कर्तुं वीरोचितं युद्धं कृतवान् अयं समरसिंहः। पञ्जाबप्रान्तेलाहोरजनपदे बङ्गा इति ग्रामः। सरदारकिषनसिंह इत्येतस्य वीरपुरुषस्य वंशजाः तत्र निवसन्ति स्म। तस्मिन् वंशे अनेके वीराः आङ्ग्लेभ्यः भारतस्य विमोचनं कारयितुं युद्धं कृतवन्तः। बालके भगतसिंहे सर्वे स्निह्यन्ति स्म। अग्रे कदाचित् एषः बालकः प्रसिद्धो भविष्यतीति सर्वे परस्परं कथयन्ति स्म। तस्य मातुः विद्यावत्याः जीवनम् आरम्भतः अपि कष्टैरेव यातम्। क्रान्तिकारी तस्याः पतिः सर्वदा अज्ञाततया पर्यटन् गृहतः दूरे एव भवति स्म। भगतसिंहस्य कनिष्ठपितृव्यौ आस्ताम्। तयोः स्वरणसिंहम् आङ्ग्लेयाः द्वितीयपर्यायार्थं कारगारं प्रेषितवन्तः। कारागारजीवनं दुर्भरम् आसीत्। अतः स्वरणसिंहः रोगग्रस्तः अभवत्। कारागारतः विमोचनानन्तरमपि तस्य स्वास्थ्यं सम्यक नाऽभवत्। कतिपयदिनेषु सः दिवङ्गतः।।

«Click Here» Two Days Leave Application In Sanskrit (संस्कृत में अवकाश हेतु प्रार्थना पत्र)

«Click Here» संस्कृत में स्थानांतरण प्रमाण पत्र

संस्कृत निबंध:
» गणतंत्र दिवस पर संस्कृत में निबंध
»संस्कृत में कालिदास का निबंध
»तुलसीदास पर निबंध संस्कृत
»मम दिनचर्या संस्कृत निबंध
»संस्‍कृत भाषाया: महत्‍वम् निबंध:
»संस्कृत भाषा में महाराष्ट्रं पर निबंध:
»पर्यावरण पर संस्कृत मे निबंध 
»महाभारत पर संस्कृत निबंध
»पुस्‍तकालय पर संस्‍कृत निबंध
»Essay on Diwali In Sanskrit
»परोपकार पर संस्कृत निबंध
»रक्षाबंधन पर निबंध संस्कृत में

[To Get latest Study Notes  &  NEWS UPDATE Join Us on Telegram- Link Given Below]

For Latest Update Please join Our Social media Handle

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

Leave a Comment