संस्कृत में कंप्यूटर पर निबंध | Essay on Computer In Sanskrit

Spread the love

Essay on Computer In Sanskrit: कम्प्यूटर हमारी जिंदगी का अहम हिस्सा बन चुका है. स्कूल से लेकर ऑफिस तक में इसका इस्तेमाल रोजाना किया जाता है और दैनिक कामकाज निपटाने के लिए घरों में भी कम्प्यूटर

का उपयोग खूब किया जा रहा है। इस लेख में हम कंप्यूटर पर संस्कृत भाषा में निबंध शेयर कर रहे हैं जो इस प्रकार है।

Computer Essay In Sanskrit (संस्कृत में कंप्यूटर पर निबंध)

सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् ‘आम्’, ‘न’ इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् ‘०’ अङ्कस्य अर्थः ‘न’ अस्ति, ‘१’ अङ्कस्य अर्थः ‘आम्’ अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- तन्त्रांशः, यन्त्रांशः च। तन्त्रांशः एव यन्त्रांशं कार्यम् कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते । एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते ।

अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति । पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म । अतः तद्युगं शिलायुगम् इति कथ्यते स्म । तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म । तद्युगं लोहयुगमिति कथ्यते स्म । कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि औषधानि संशोधितानि । अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति ।

10 Sentences About Computer In Sanskrit

(1) कम्प्यूटर शब्दः आंग्लभाषायाः गणनार्थकात् कम्प्यूट शब्दाद् निष्पद्यते। 

(2) अतः कम्प्यूटरस्य कृते संगणक-शब्दः प्रयुज्यते। 

(3) आधुनिकेषु आविष्कारेषु कम्प्यूटरस्य विशिष्टं महत्वं वर्तते।

(4) वर्तमान-युगः संगणक-युगः इति निगद्यते।

(5) संगणकेन मानव-जीवने नवीनाः क्रान्तिः विहिता। 

(6) संगणकः ज्ञानविज्ञानवार्धकं यन्त्रं विद्यते। 

(7) सर्वप्रथमं सांख्यिकी-कम्प्यूटरस्य निर्माणं पेनसिलवेनिया- विश्वविद्यालये 1946 ईसवीये अभवन्। 

(8) तदा एतस्य भारः त्रिंशत्-टन-परिमितम् आसीत्। 

(9) साम्प्रतं कम्प्यूटरः अतिद्रुतगत्या विकासं कुर्वन् लोकस्य उपयोगितां साधयति। 

(10) आकार-प्रकार-दृष्टया कार्यक्षमतां चाश्रित्य कम्प्यूटरः चतुर्वर्गेषु विभाज्यते।  

संस्कृत निबंध:
» गणतंत्र दिवस पर संस्कृत में निबंध
»संस्कृत में कालिदास का निबंध
»तुलसीदास पर निबंध संस्कृत
»मम दिनचर्या संस्कृत निबंध
»संस्‍कृत भाषाया: महत्‍वम् निबंध:
»संस्कृत भाषा में महाराष्ट्रं पर निबंध:
»भगत सिंह पर संस्कृत में निबंध
»महाभारत पर संस्कृत निबंध
»पुस्‍तकालय पर संस्‍कृत निबंध
»Essay on Diwali In Sanskrit
»परोपकार पर संस्कृत निबंध
»रक्षाबंधन पर निबंध संस्कृत में
»पर्यावरण पर संस्कृत मे निबंध 
»संस्कृत निबंध: ‘मम प्रियं पुस्तकम्’
»गाय (धेनु) का निबंध संस्कृत में
»संस्कृत में आचार्य चाणक्य: पर निबंध
»राष्ट्रीय पक्षी मोर पर संस्कृत में निबन्ध
»अस्माकं ग्रामः पर संस्कृते निबंध

[To Get latest Study Notes  &  NEWS UPDATE Join Us on Telegram- Link Given Below]

For Latest Update Please join Our Social media Handle

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

1 thought on “संस्कृत में कंप्यूटर पर निबंध | Essay on Computer In Sanskrit”

Leave a Comment