(PDF) महात्मा गांधी का निबंध संस्कृत में | Essay on Mahatma Gandhi In Sanskrit

Spread the love

Essay on Mahatma Gandhi In Sanskrit: क्या आप संस्कृत भाषा में महात्मा गांधी जी का निबंध खोज रहे हैं? तब आप सही स्थान पर हैं।

इस लेख में, हम महात्मा गांधी के जीवन और उनके महत्वपूर्ण योगदान के बारे में संस्कृत में एक निबंध प्रस्तुत करेंगे।

महात्मा गांधी को भारत के सबसे बड़े स्वतंत्रता सेनानी के रूप में जाना जाता है जिन्होंने अहिंसा के रास्ते देश की आज़ादी की लड़ाई में बड़ा योगदान दिया था। यहाँ हम संस्कृत भाषा में देश के इस महानायक पर निबंध शेयर कर रहे है।

About Mahatma Gandhi

महात्मा गांधी का जन्म 2 अक्टूबर 1869 को गुजरात के पोरबंदर नामक स्थान पर हुआ था। इनका पूरा नाम मोहनदास करमचंद गांधी था। इनके पिता का नाम करमचंद गांधी था। मोहनदास की माता का नाम पुतलीबाई था जो करमचंद गांधी जी की चौथी पत्नी थीं। मोहनदास अपने पिता की चौथी पत्नी की अंतिम संतान थे। गांधी जी ने भारत में स्वतंत्रता की लड़ाई के प्रमुख नेता थे जिन्होंने अहिंसा के मार्ग पर चल कर देश को ब्रिटिश शासन से आज़ाद कराने में अपना बड़ा योगदान दिया था।

इस आर्टिकल में हम गांधी जी पर एक विस्तृत निबंध संस्कृति भाषा में शेयर कर रहे है जो कि स्कूल में पढ़ाई कर रहे विद्यार्थियों को ध्यान में रख कर तैयार किया गया है।

Mahatma Gandhi Essay in Sanskrit- 10 Lines

(1) अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति। स हि गतोऽपि जीवितः एव अस्ति।

(2) यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते।

(3) यशः शरीरेण ते सदा जीवन्ति।

(4) महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत्।

(5) सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत्।

(6) मनसि वचसि कर्मणि च तस्य एकता आसीत्।

(7) अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत।

(8) तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा।

(9) सः महापुरुषः अपरः बुद्धः आसीत्।

(10) सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत्।

आपके लिये अन्य महत्वपूर्ण पोस्ट-

Mahatma Gandhi Nibandh in Sanskrit (Long Essay)

महात्मा गान्धिः भारतस्य राष्ट्रपिता कथ्यते । विश्ववन्द्यस्य प्रातःस्मरणीयस्यास्य महात्मनो जन्म काठियावाड़प्रदेश पोरबन्दरनामके स्थले एकोनसप्तत्यधिकाष्टादशशततमे खिस्तीयवर्षे अभवत् । अस्य पूर्ण नाम मोहनदासकर्मचन्दगान्धिः इत्यस्ति ।

आबाल्यादेव अयं सत्यवादी आसीत् । अस्य विवाहः कस्तूरबानाम्न्या धार्मिकमहिलया बभूव । कुशाग्रबुद्धिरयं विधिशास्त्रस्योच्चशिक्षा प्राप्तुं विदेशं गतः, परन्तु तत्र तेन संयमपूर्वक मांसमदिरापरिहारः कृतः । एवम् आत्मशुद्धिपूर्वक प्रावीण्यं लब्ध्वा स्वदेशं प्रतिनिवृत्य पुनः वृत्त्यर्थम् अफ्रीकां गतः । तत्रत्यानां भारतीयानाम् आंग्लशासकैः कृतां दुर्दशामवलोक्य तस्य हृदयं द्रवीभूतं, तदर्थं च तेन न्याययुद्धं प्रारब्धं येन तत्रत्यानां भारतीयानां दशा किञ्चित् परिष्कृता ।

तदनु भारतं प्रतिनिवृत्य. आंग्लशासने भारतीयजनानां कष्टानि दृष्ट्वा तेन सर्वं जीवनं भारतीयस्वातन्त्र्ययुद्धाय आहुतम् । तेन हरिजनोद्धारेण अन्यैश्चोपायैः भारतीयजनेषु ऐक्यभावः सञ्चारितः यतः संघट्टनेन ऐक्येन च विना आंग्लशासनात् मुक्तिः असंभवा आसीत् । तेन सम्यक् ज्ञातं यत् महत्या आंग्लशासनशक्त्या अहिंसयैव योद्धुं शक्यते न हिसया। अतएव तेन अहिंसकैः असहयोगान्दोलनः आंग्लीया भारतशासनं त्यक्तुं विवशीकृताः । सः स्वयं सत्याचरणम् अकरोत् ।तेन भारतीयाः स्वदेशिवस्तूनां प्रयोगाय विदेशिवस्तूनां परित्यागाय च प्रतिबोधिताः । भारतीयतां भारतीयगौरवं च जनमानसे प्रतिबोधयितुं तेन संस्कृतज्ञानस्य महत्त्वं ख्यापित हिन्दीभाषायाः प्रयोगश्च प्रसारितः । सर्वधर्मसमभावः तस्यान्दोलनस्य मूलमासीत् । स्वातन्त्र्ययुद्धे सः अनेकवारं कारागारे निगृहीतः । सर्वं भारतीयं तस्य प्रियम् आसीत्, दरिद्राणां दुःखिनां विपन्नानां च कष्टेन तस्य हृदयं द्रवीभूतम्, तेषामुत्थानाय तेन महान् प्रयत्नो विहितः । ग्रामोन्नतिरेव भारतस्य उन्नतिरिति तेन सत्यं प्रतिपादितम् ।।

अष्टचत्वारिंशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे जनवरीमासस्य त्रिशे दिवसे कस्यापि अविमृश्यकारिणः नाथूरामगोड्सेनाम्नो जनस्य गोलीप्रहारेण दिवंगतोऽयं महात्मा।

तस्य त्यागेन नीत्या च भारत स्वतन्त्रमभूत् । अद्यापि वयं तस्य नीतिमंनुसरन्त एव यदि भारतं निर्मातुं प्रयतामहे तदैव साफल्यं प्राप्स्यामः ।

महात्मा गांधी पर संस्कृत में निबंध- DOWNLOAD PDF HERE

For Latest Update Please join Our Social media Handle

Follow Facebook – Click Here
Join us on Telegram – Click Here
Follow us on Twitter – Click Here

Spread the love

2 thoughts on “(PDF) महात्मा गांधी का निबंध संस्कृत में | Essay on Mahatma Gandhi In Sanskrit”

Leave a Comment