दशहरा पर निबंध संस्कृत में | Dussehra or Vijayadashami Essay in Sanskrit

Spread the love

Dussehra or Vijayadashami Essay in Sanskrit: भारतीय संस्कृति के प्रमुख त्यौहारो मे से एक दशहरा जिसे हम विजयादशमी भी कहते है देश मे बड़े ही धूम धाम से हर साल मनाया जाता है। यह पर्व नवरात्रि के 10वे दिन पड़ता है जो कि अश्विन के महीने के दसवें दिन हिंदू चंद्रमा कैलेंडर के अनुसार मनाया जाता है तथा ग्रेगोरियन कैलेंडर के सितंबर या अक्टूबर माह मे पड़ता है। इस पर्व की महत्वता के कारण इस विषय पर विभिन्न परीक्षाओ मे निबंध पूछे जाते है हमने अपने पिछले लेखो मे इस पर हिन्दी भाषा मे निबंध शेअर कर चुके है और आज हम दशहरा पर निबंध संस्कृत में आपके साथ शेअर कर रहे है।

Dussehra Essay in Sanskrit

यह विजयादशमी पर्व (दशहरा) बुराई पर अच्छाई की जीत का प्रतीक है क्योकि इसीदिन भगवान श्री राम ने लंकापति रावण का वध किया था साथ ही इसी दिन माता दुर्गा ने राक्षस महिषासुर का संहार किया था। तब से लेकर अब तक सम्पूर्ण भारत वर्ष मे यह पर्व मनाया जाता आ रहा है।

Dussehra or Vijayadashami Essay in Sanskrit
Dussehra or Vijayadashami Essay in Sanskrit

Vijayadashami Essay in Sanskrit

चिरकालात् एव भारतीयाः जनाः उत्सव प्रियाः भवन्ति । प्रति उत्सवस्य सम्बन्धः भारतीय संस्कृतिना सह भवति। विजयादशमी अपि अस्माकं सांस्कृतिक पौराणिकं वा पर्व वर्तते । इदं पर्व विजयस्य प्रतीकं अस्ति । अधर्मस्य उपरि धर्मस्य, पापस्य उपरि पुण्यस्य, असत्यस्योपरि सत्यस्य, दुष्टानामुपरि सज्जनानां च विजयस्य प्रतीकमस्ति इदं पर्व ।

अयमुत्सवः प्रतिवर्षम् आश्विन्‌मासस्य शुक्लायां दशम्यां सम्पन्नो भवति । इदं पर्व दीपावली पर्वणः विंशतिदिनेभ्यः पूर्वं आगच्छति । एषः उत्सवः प्रायशः अक्तूबर मासे आगच्छति। एतेन उत्सवेन सह एकस्याः कथायाः सम्बन्धः अस्ति । यदा श्री रामः पितुः आज्ञां पालयितुं चतुर्दशवर्षाणि वनेऽवसत् तदा राक्षसराजो रावणः सीताम् अहरत् । स्वपत्नीं प्राप्तुं श्री रामः रावणं अमारयत् । यस्मिन् दिवसे तेन रावणः मारितः, तद् दिनमेव ‘विजया दशमी’ नाम्ना प्रसिद्धः अभवत् । श्रीरामः रावणस्योपरि विजयं लब्धवान् । श्री रामः धर्मस्य रावणः च अधर्मस्य प्रतीकः अस्ति। अतः तस्मिन् दिवसे अधर्मस्योपरि धर्मस्य विजयः अभवत् ।

अस्मिन् अवसरे सर्वत्र भारतवर्षे नगरे-नगरे ग्रामे ग्रामे च रामलीलायाः आयोजनं भवति । जनैः श्री रामस्य चरितस्य अभिनयं क्रियते जनाश्च रामलीलां द्रष्टुं सोल्लासं गच्छन्ति । रामलीलया बालाः श्री रामस्य चरितमनुकर्तुं शिक्षन्ते । रामलीला सदाचारम् आज्ञापालनं सद्व्यवहारं च शिक्षयति । रामलीला प्रथम- नवरात्रे आरभ्यते दशम्यां तिथौ समाप्यते च । तस्मिन् दिने स्थाने स्थाने रावण- कुम्भकरण – मेघनादादीनां प्रतिरूपाणि निर्मीयन्ते सांयकाले च प्रज्वाल्यन्ते । एताः पुतलिकाः विस्फोटक पदार्थैः पूरिताः भवन्ति । अतः बालकाः एताः दृष्ट्या हर्षिताः भवन्ति । इत्थं दशदिवसाधिकः समारोहः सानन्दं समाप्ति गच्छति ।

केचन जनाः विजयादशम्यां शक्ति-पूजां कुर्वन्ति यतः अयं विजयः शक्तेः प्रतीकमस्ति । अतः जनाः शक्तिप्रतिका -दुर्गायाः पूजां कुर्वन्ति । इदम् च अपि प्रख्यातं यत् महिसासुरः एकः राक्षसः आसीत् । तस्य अत्याचारैः सर्वेजनाः क्षुब्धाः आसन् । ततस्तस्य दुर्गानाम्न्या महादेव्या दिवसे संहारः कृतः विजयश्च लब्धः । अतएव जनाः नवदिवसेषु नवरात्रेषु वा दुर्गादिव्याः अर्चनं कुर्वन्ति । नवरात्रेषु जनाः उपवासम् आचरन्ति केवलं फलाहार च कुर्वन्ति । दशम्यां तिथौ अर्चन कृत्वा एवं भोजनं कुर्वन्ति।

Read More: (PDF) महात्मा गांधी का निबंध संस्कृत में | Essay on Mahatma Gandhi In Sanskrit

Follow Facebook –Click Here

Join us on Telegram –Click Here

Follow us on Twitter –Click Here


Spread the love

Leave a Comment